नारद उवाच
ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः |
धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम||१||
शिरो में भास्करिः पातु भालं छायासुतोऽवतु |
कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती ||२||
घ्राणं मे भीषणः पातु मुखं बलिमुखोऽवतु |
स्कन्धौ संवर्तकः पातु भुजौ मे भयदोऽवतु || ३||
सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु |
ग्रहराजः कटिं पातु सर्वतो रविनन्दनः
|| ४||
पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः |
रक्षामेतां पठेन्नित्यं सौरेर्नामबलैर्युताम्
|| ५||
सुखी पुत्री चिरायुश्च स भवेन्नात्र संशयः |
सौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः ||६||
शुष्कोदरो विशालाक्षो र्दुनिरीक्ष्यो विभीषणः |
शिखिकण्ठनिभो नीलश्छायाहृदयनन्दनः
|| ७||
कालदृष्टिः कोटराक्षः स्थूलरोमावलीमुखः |
दीर्घो निर्मांसगात्रस्तु शुष्को घोरो भयानकः ||८||
नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुर्जटाधरः|
मन्दो मन्दगतिः खंजो तृप्तः संवर्तको यमः || ९||
ग्रहराजः कराली च सूर्यपुत्रो रविः शशी |
कुजो बुधो गुरूः काव्यो भानुजः सिंहिकासुतः ||१०||
केतुर्देवपतिर्बाहुः कृतान्तो नैऋतस्तथा |
शशी मरूत्कुबेरश्च ईशानः सुर आत्मभूः ||११||
विष्णुर्हरो गणपतिः कुमारः काम ईश्वरः |
कर्ता हर्ता पालयिता राज्यभुग् राज्यदायकः ||१२||
छायासुतः श्यामलाङ्गो धनहर्ता धनप्रदः |
क्रूरकर्मविधाता च सर्वकर्मावरोधकः ||१३||
तुष्टो रूष्टः कामरूपः कामदो रविनन्दनः |
ग्रहपीडाहरः शान्तो नक्षत्रेशो ग्रहेश्वरः ||१४||
स्थिरासनः स्थिरगतिर्महाकायो महाबलः |
महाप्रभो महाकालः कालात्मा कालकालकः ||१५||
आदित्यभयदाता च मृत्युरादित्यनंदनः |
शतभिद्रुक्षदयिता त्रयोदशितिथिप्रियः ||१६||
तिथ्यात्मा तिथिगणनो नक्षत्रगणनायकः |
योगराशिर्मुहूर्तात्मा कर्ता दिनपतिः प्रभुः ||१७||
शमीपुष्पप्रियः श्यामस्त्रैलोक्याभयदायकः |
नीलवासाः क्रियासिन्धुर्नीलाञ्जनचयच्छविः
||१८||
सर्वरोगहरो देवः सिद्धो देवगणस्तुतः |
अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः || १९||
पठेन्नित्यं तस्य पीडा समस्ता नश्यति ध्रुवम् |
कृत्वा पूजां पठेन्मर्त्यो भक्तिमान्यः स्तवं सदा ||२०||
विशेषतः शनिदिने पीडा तस्य विनश्यति |
जन्मलग्ने स्थितिर्वापि गोचरे क्रूरराशिगे ||२१||
दशासु च गते सौरे तदा स्तवमिमं पठेत् |
पूजयेद्यः शनिं भक्त्या शमीपुष्पाक्षताम्बरैः ||२२||
विधाय लोहप्रतिमां नरो दुःखाद्विमुच्यते |
वाधा याऽन्यग्रहाणां च यः पठेत्तस्य नश्यति ||२३||
भीतो भयाद्विमुच्येत बद्धो मुच्येत बन्धनात् |
रोगी रोगाद्विमुच्येत नरः स्तवमिमं पठेत् ||२४||
पुत्रवान्धनवान् श्रीमान् जायते नात्र संशयः ||२५||
नारद उवाच ||
स्तवं निशम्य पार्थस्य प्रत्यक्षोऽभूच्छनैश्चरः |
दत्त्वा राज्ञे वरः कामं शनिश्चान्तर्दधे तदा ||२६||
|| इति श्री भविष्यपुराणे शनैश्चरस्तवराजः
सम्पूर्णः ||
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें