नागेंद्र्हराय त्रिलोचन भस्मांगरागाय महेश्वराय !
नित्याय शुद्धाय दिगम्बराय तस्मै 'न' काराय
नमः शिवाय !!
मन्दाकिनीसलिलचन्दनचर्चिताय
नन्दीश्वरप्रमथनाथमहेश्वराय !
मंदारपुष्पबहुपुष्पसुपूजिताय तस्मै 'म' काराय नमः शिवाय !!
शिवाय गौरिवदनाब्जवृन्द -सूर्याय दक्षाध्वरनाश्काय !
श्रीनीलकंठाय वृध्व्जाय तस्मै 'शि' काराय नमः शिवाय !!
वसिष्ठकुम्भोदवगौतामार्य -मुनीन्द्रदेवाचिर्तशेखाय !
चन्द्राकवैश्वानरलोचनाय तस्मै 'व' काराय नमः शिवाय !!
यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय !
दिव्याय देवाय दिगम्बराय तस्मै 'य' काराय नमः शिवाय !!
पश्चाक्षर्मिन्दम पुण्य य: पठेच्छिवसन्निधौ !
शिवलोकमवाप्नोतिशिवेन सह मोदेते !!
शुक्रवार, 12 दिसंबर 2014
श्री शिव पंचाक्षरस्तोत्रम
मंगलवार, 2 दिसंबर 2014
गणेशाष्टोत्तरशतनामस्तोत्रम्
गणेशहेरंबगजाननेति
महोदर! स्वानुभवप्रकाशिन्!।
वरिष्ठ! सिद्धिप्रिय! बुद्धिनाथ!
वदन्तमेवं त्यजत प्रभीताः ॥१॥
अनेकविघ्नान्तक! वक्रतुण्ड!
स्वसंज्ञवासिंश्चतुर्भुजेति ।
कवीश देवान्तकनाशकारिन्
वदन्तमेवं त्यजत प्रभीताः ॥२॥
महेशसूनो गजदैत्यशत्रो
वरेण्यसूनो विकटत्रिनेत्र
परेश पृथ्वीधर! एकदन्त !
वदन्तमेवं त्यजत प्रभीताः ॥३॥
प्रमोदमोदेति नरान्तकारे
षडूर्मिहन्तर्गजकर्ण डुण्ढे!
द्वन्द्वारिसिन्धो स्थिरभावकरिन्!
वदन्तमेवं त्यजत प्रभीताः ॥४॥
विनायक ज्ञानविघातशत्रो
पराशरस्यात्मज! विष्णुपुत्र!
अनादिपूज्याखुग सर्वपूज्य
वदन्तमेवं त्यजत प्रभीताः ॥५॥
विद्येज्य लंबोदर धूम्रवर्ण
मयूरपालेति मयूरवाहिन्।
सुरासुरैः सेवितपादपद्म!
वदन्तमेवं त्यजत प्रभीताः ॥६॥
वरिन्महाखुध्वज! शूर्पकर्ण!
शिवाजसिंहस्थ अनन्तवाह।
दितौज विघ्नेश्वर शेषनाभे
वदन्तमेवं त्यजत प्रभीताः ॥७॥
अणोरणीयो महतोमहीयो
रवेर्ज योगेशज ज्येष्ठराज!
निधीश मन्त्रे शच शेषपुत्र!
वदन्तमेवं त्यजत प्रभीताः ॥८॥
वरप्रदातरदितेश्च सूनो
परात्पर ज्ञानद तारवक्त्र।
गुहाग्रज ब्रह्मप पार्श्वपुत्र
वदन्तमेवं त्यजत प्रभीताः ॥९॥
सिन्धोश्च शत्रो! परशुप्रपाणे!
शमीश! पुष्पप्रिय! विघ्नहारिन्।
दूर्वाभरैरर्चित! देवदेव!
वदन्तमेवं त्यजत प्रभीताः ॥१०॥
धियःप्रदातश्च शमिप्रियेति
सुसिद्धिदातश्च सुशान्तिदातः!।
अमेयमायाऽमितविक्रमेति
वदन्तमेवं त्यजत प्रभीताः ॥११॥
द्विधाचतुर्थिप्रिय! कश्यपाज्ज!
धनप्रद! ज्ञानपदप्रकाश! ।
चिन्तामणे! चित्तविहारकारिन्!
वदन्तमेवं त्यजत प्रभीताः ॥१२॥
यमस्य शत्रो! अभिमान शत्रो!
विधेर्ज! हन्तः! कपिलस्य सूनो!।
विदेह! स्वानन्द! अयोगयोग!
वदन्तमेवं त्यजत प्रभीताः ॥१३॥
गणस्य शत्रो कमलस्य शत्रो!
समस्तभावज्ञ! च फालचन्द्र!।
अनादिमध्यान्तमय प्रचारिन्!
वदन्तमेवं त्यजत प्रभीताः ॥१४॥
विभो जगद्रूप! गणेश! भूमन्!
पुष्टेःपते! आखुगतेति बोद्धः
कर्तश्च पातुश्च तु संहरेति
वदन्तमेवं त्यजत प्रभीताः ॥१५॥
इदमष्टोत्तरशतं नाम्ना तस्य पठन्ति ये।
शृण्वन्ति वा तेषु भीतः कुरुध्वं मा प्रवेशनम्॥१६॥
भुक्तिमुक्तिप्रदं डुण्ढेर्धनधान्यप्रवर्धनम्।
ब्रह्मभूयकरं स्तोत्रं जपन्तं नित्यमादरात् ॥१७॥
यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः।
धामानि तत्र संभीताः कुरुध्वं मा प्रवेशनम्॥१८॥
सोमवार, 1 दिसंबर 2014
मंगला गौरी स्तोत्र
ॐ रक्ष-रक्ष जगन्माते देवि मङ्गल चण्डिके ।
हारिके विपदार्राशे हर्षमंगल कारिके ॥
हर्षमंगल दक्षे च हर्षमंगल दायिके ।
शुभेमंगल दक्षे च शुभेमंगल चंडिके ॥
मंगले मंगलार्हे च सर्वमंगल मंगले ।
सता मंगल दे देवि सर्वेषां मंगलालये ॥
पूज्ये मंगलवारे च मंगलाभिष्ट देवते ।
पूज्ये मंगल भूपस्य मनुवंशस्य संततम् ॥
मंगला धिस्ठात देवि मंगलाञ्च मंगले ।
संसार मंगलाधारे पारे च सर्वकर्मणाम् ॥
देव्याश्च मंगलंस्तोत्रं यः श्रृणोति समाहितः।
प्रति मंगलवारे च पूज्ये मंगल सुख-प्रदे ॥
तन्मंगलं भवेतस्य न भवेन्तद्-मंगलम् ।
वर्धते पुत्र-पौत्रश्च मंगलञ्च दिने-दिने ॥
मामरक्ष रक्ष-रक्ष ॐ मंगल मंगले ।
॥ इति मंगलागौरी स्तोत्रं सम्पूर्णं ॥
गुरुवार, 27 नवंबर 2014
श्रीलक्ष्म्यष्टोत्तरशत नामावलि
ॐ प्रकृत्यै नमः ।१।
ॐ विकृत्यै नमः ।२।
ॐ विद्यायै नमः ।३।
ॐ सर्वभूतहितप्रदायै नमः ।४।
ॐ श्रद्धायै नमः ।५।
ॐ विभूत्यै नमः ।६।
ॐ सुरभ्यै नमः ।७।
ॐ परमात्मिकायै नमः ।८।
ॐ वाचे नमः ।९।
ॐ पद्मालयायै नमः ।१०।
ॐ पद्मायै नमः ।११।
ॐ शुचये नमः ।१२।
ॐ स्वाहायै नमः ।१३।
ॐ स्वधायै नमः ।१४।
ॐ सुधायै नमः ।१५।
ॐ धन्यायै नमः ।१६।
ॐ हिरण्मय्यै नमः ।१७।
ॐ लक्ष्म्यै नमः ।१८।
ॐ नित्यपुष्टायै नमः ।१९।
ॐ विभावर्यै नमः ।२०।
ॐ अदित्यै नमः ।२१।
ॐ दित्ये नमः ।२२।
ॐ दीपायै नमः ।२३।
ॐ वसुधायै नमः ।२४।
ॐ वसुधारिण्यै नमः ।२५।
ॐ कमलायै नमः ।२६।
ॐ कान्तायै नमः ।२७।
ॐ कामाक्ष्यै नमः ।२८।
ॐ क्रोधसंभवायै नमः ।२९।
ॐ अनुग्रहप्रदायै नमः ।३०।
ॐ बुद्धये नमः ।३१।
ॐ अनघायै नमः ।३२।
ॐ हरिवल्लभायै नमः ।३३।
ॐ अशोकायै नमः ।३४।
ॐ अमृतायै नमः ।३५।
ॐ दीप्तायै नमः ।३६।
ॐ लोकशोकविनाशिन्यै नमः ।३७।
ॐ धर्मनिलयायै नमः ।३८।
ॐ करुणायै नमः ।३९।
ॐ लोकमात्रे नमः ।४०।
ॐ पद्मप्रियायै नमः ।४१।
ॐ पद्महस्तायै नमः ।४२।
ॐ पद्माक्ष्यै नमः ।४३।
ॐ पद्मसुन्दर्यै नमः ।४४।
ॐ पद्मोद्भवायै नमः ।४५।
ॐ पद्ममुख्यै नमः ।४६।
ॐ पद्मनाभप्रियायै नमः ।४७।
ॐ रमायै नमः ।४८।
ॐ पद्ममालाधरायै नमः ।४९।
ॐ देव्यै नमः ।५०।
ॐ पद्मिन्यै नमः ।५१।
ॐ पद्मगन्धिन्यै नमः ।५२।
ॐ पुण्यगन्धायै नमः ।५३।
ॐ सुप्रसन्नायै नमः ।५४।
ॐ प्रसादाभिमुख्यै नमः ।५५।
ॐ प्रभायै नमः ।५६।
ॐ चन्द्रवदनायै नमः ।५७।
ॐ चन्द्रायै नमः ।५८।
ॐ चन्द्रसहोदर्यै नमः ।५९।
ॐ चतुर्भुजायै नमः ।६०।
ॐ चन्द्ररूपायै नमः ।६१।
ॐ इन्दिरायै नमः ।६२।
ॐ इन्दुशीतलायै नमः ।६३।
ॐ आह्लादजनन्यै नमः ।६४।
ॐ पुष्टयै नमः ।६५।
ॐ शिवायै नमः ।६६।
ॐ शिवकर्यै नमः ।६७।
ॐ सत्यै नमः ।६८।
ॐ विमलायै नमः ।६९।
ॐ विश्वजनन्यै नमः ।७०।
ॐ तुष्टयै नमः ।७१।
ॐ दारिद्र्यनाशिन्यै नमः ।७२।
ॐ प्रीतिपुष्करिण्यै नमः ।७३।
ॐ शान्तायै नमः ।७४।
ॐ शुक्लमाल्यांबरायै नमः ।७५।
ॐ श्रियै नमः ।७६।
ॐ भास्कर्यै नमः ।७७।
ॐ बिल्वनिलयायै नमः ।७८।
ॐ वरारोहायै नमः ।७९।
ॐ यशस्विन्यै नमः ।८०।
ॐ वसुन्धरायै नमः ।८१।
ॐ उदारांगायै नमः ।८२।
ॐ हरिण्यै नमः ।८३।
ॐ हेममालिन्यै नमः ।८४।
ॐ धनधान्यकर्ये नमः ।८५।
ॐ सिद्धये नमः ।८६।
ॐ स्त्रैणसौम्यायै नमः ।८७।
ॐ शुभप्रदाये नमः ।८८।
ॐ नृपवेश्मगतानन्दायै नमः ।८९।
ॐ वरलक्ष्म्यै नमः ।९०।
ॐ वसुप्रदायै नमः ।९१।
ॐ शुभायै नमः ।९२।
ॐ हिरण्यप्राकारायै नमः ।९३।
ॐ समुद्रतनयायै नमः ।९४।
ॐ जयायै नमः ।९५।
ॐ मंगळा देव्यै नमः ।९६।
ॐ विष्णुवक्षस्स्थलस्थितायै नमः ।९७।
ॐ विष्णुपत्न्यै नमः ।९८।
ॐ प्रसन्नाक्ष्यै नमः ।९९।
ॐ नारायणसमाश्रितायै नमः ।१००।
ॐ दारिद्र्यध्वंसिन्यै नमः ।१०१।
ॐ देव्यै नमः ।१०२।
ॐ सर्वोपद्रव वारिण्यै नमः ।१०३।
ॐ नवदुर्गायै नमः ।१०४।
ॐ महाकाल्यै नमः ।१०५।
ॐ ब्रह्माविष्णुशिवात्मिकायै नमः ।१०६।
ॐ त्रिकालज्ञानसंपन्नायै नमः ।१०७।
ॐ भुवनेश्वर्यै नमः ।१०८।
॥ इति श्रीलक्ष्म्यष्टोत्तरशत नामावलिः ॥
सोमवार, 17 नवंबर 2014
श्री एकदन्तस्तोत्रम
मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः।
भृग्वादयश्च मुनयः एकदन्तं समाययुः ॥१॥
प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात्
तुष्टुवुर्हर्षसंयुक्ताः एकदन्तं गणेश्वरम् ॥२॥
सदात्मरूपं सकलादिभूत-
ममायिनं सोहमचिन्त्यबोधम्।
अनादिमध्यान्तविहीनमेकं
तमेकदन्तं शरणं व्रजामः ॥३॥
अनन्तचिद्रूपमयं गणेशं
ह्यभेदभेदादिविहीनमाद्यम्।
हृदि प्रकाशस्य धरं सुधीस्थं
तमेकदन्तं शरणं व्रजामः ॥४॥
विश्वादिभूतं हृदि योगिनां वै
प्रत्यक्षरूपेण विभान्तमेकं।
सदा निरालंबसमाधिगम्यं
तमेकदन्तं शरणं व्रजामः ॥५॥
स्वबिंबभावेन विलासयुक्तं
बिंबस्वरूपा रचिता स्वमाया।
तस्यां स्ववीर्यं प्रददाति यो वै
तमेकदन्तं शरणं व्रजामः ॥६॥
त्वदीयवीर्येण समर्थभूता
माया तया संरचितञ्च विश्वम्।
नादात्मकं ह्यात्मतया प्रतीतं
तमेकदन्तं शरणं व्रजामः ॥७॥
त्वदीयसत्ताधरमेकदन्तं
गणेशमेकं त्रयबोधितारम्।
सेवन्त आपुस्तमजं त्रिसंस्था-
स्तमेकदन्तं शरणं व्रजामः ॥८॥
ततस्त्वया प्रेरित एव नाद-
स्तेनेदमेवं रचितं जगद्वै ।
आनन्दरूपं समभावसंस्थं
तमेकदन्तं शरणं व्रजामः ॥९॥
तदेव विश्वं कृपया तवैव
संभूतमाद्यं तमसा विभातम्।
अनेकरूपं ह्यजमेकभूतं
तमेकदन्तं शरणं व्रजामः ॥१०॥
ततस्त्वया प्रेरितमेव तेन
सृष्टं सुसूक्ष्मं जगदेकसंस्थम् ।
सत्त्वात्मकं श्वेतमनन्तमाद्यं
तमेकदन्तं शरणं व्रजामः ॥११॥
तदेव स्वप्नं तमसा गणेश
संसिद्धिरूपं विविधं बभूव।
सदेकरूपं कृपया तवापि
तमेकदन्तं शरणं व्रजामः ॥१२॥
संप्रेरितं तच्च त्वया हृदिस्थं
तथा सुसृष्टं जगदंशरूपम्
तेनैव जाग्रन्मयमप्रमेयं
तमेकदन्तं शरणं व्रजामः ॥१३॥
जाग्रत्स्वरूपं रजसा विभातं
विलोकितं त्वत्कृपया यदैवम्।
तदा विभिन्नं भवतेकरूपं
तमेकदन्तं शरणं व्रजामः ॥१४॥
एवञ्च सृष्ट्वा प्रकृतस्वभावा-
त्तदन्तरे त्वञ्च विभासि नित्यम्।
बुद्धिप्रदाता गणनाथ एक
स्तमेकदन्तं शरणं व्रजामः ॥१५॥
त्वदाज्ञया भान्ति ग्रहाश्च सर्वे
नक्षत्ररूपाणि विभान्ति खे वै।
आधारहीनानि त्वया धृतानि
तमेकदन्तं शरणं व्रजामः ॥१६॥
त्वदाज्ञया सृष्टिकरो विधाता
त्वदाज्ञया पालक एव विष्णुः।
त्वदाज्ञया संहरको हरोऽपि
तमेकदन्तं शरणं व्रजामः ॥१७॥
यदाज्ञया भूर्जलमध्यसंस्था
यदाज्ञयापः प्रवहन्ति नद्यः।
सीमां सदा रक्षति वै समुद्र-
स्तमेकदन्तं शरणं व्रजामः ॥१८॥
यदाज्ञया देवगणो दिविस्थो
ददाति वै कर्मफलानि नित्यम्।
यदाज्ञया शैलगणोऽचलो वै
तमेकदन्तं शरणं व्रजामः ॥१९॥
यदाज्ञया शेष इलाधरो वै
यदाज्ञया मोहप्रदश्च कामः।
यदाज्ञया कालधरोऽर्यमा च
तमेकदन्तं शरणं व्रजामः ॥२०॥
यदाज्ञया वाति विभाति वायु-
र्यदाज्ञयाग्निर्जठरादिसंस्थः।
यदाज्ञया वै स चराचरञ्च
तमेकदन्तं शरणं व्रजामः ॥२१॥
सर्वान्तरे संस्थितमेकगूढं
यदाज्ञया सर्वमिदं विभाति।
अनन्तरूपं हृदि बोधकं वै
तमेकदन्तं शरणं व्रजामः ॥२२॥
यं योगिनो योगबलेन साध्यं
कुर्वन्ति तं कः स्तवनेन स्तौति।
अतः प्रणामेन सुसिद्धिदोऽस्तु
तमेकदन्तं शरणं व्रजामः ॥२३॥
एवं स्तुत्वा च प्रह्लाद! देवास्समुनयश्च वै।
तूष्णींभावं प्रपद्यैव ननृतुर्हर्षसंयुताः ।।२४॥
स तानुवाच प्रीतात्मा ह्येकदन्तः स्तवेन वै।
जगाद तान् महाभागान् देवर्षीन् भक्तवत्सलः॥२५॥
प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्षिगणाः किल।
वृणुत वरदोहं हे दास्यामि मनसेप्सितम् ॥२६॥
भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मे
भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥२७॥
यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठकः
पुत्रपौत्रादिकं सर्वं लभते धनधान्यकम् ॥२८॥
गजाश्वादिकमत्यन्त राज्यभोगं लभेत् ध्रुवम्।
भुक्तिं मुक्तिं च योगं वै लभते शन्तिदायकम् ॥२९॥
शनिवार, 15 नवंबर 2014
श्री दत्तात्रेयस्तोत्रम्
जटाधरं पाण्डुरंगं शूलहस्तं दयानिधिम्।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥१॥
जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे।
भवपाशविमुक्ताय दत्तात्रेय नमोस्तु ते॥२॥
जराजन्मविनाशाय देहशुद्धिकराय च।
दिगंबर दयामूर्ते दत्तात्रेय नमोस्तु ते॥३॥
कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च।
वेदशास्स्त्रपरिज्ञाय दत्तात्रेय नमोस्तु ते॥४॥
ह्रस्वदीर्घकृशस्थूलनामगोत्रविवर्जित!
पञ्चभूतैकदीप्ताय दत्तात्रेय नमोस्तु ते॥५॥
यज्ञभोक्त्रे च यज्ञेय यज्ञरूपधराय च।
यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोस्तु ते॥६॥
आदौ ब्रह्मा मध्ये विष्णुरन्ते देवः सदाशिवः।
मूर्तित्रयस्वरूपाय दत्तात्रेय नमोस्तु ते॥७॥
भोगालयाय भोगाय योगयोग्याय धारिणे।
जितेन्द्रिय जितज्ञाय दत्तात्रेय नमोस्तु ते॥८॥
दिगंबराय दिव्याय दिव्यरूपधराय च।
सदोदितपरब्रह्म दत्तात्रेय नमोस्तु ते॥९॥
जंबूद्वीप महाक्षेत्र मातापुरनिवासिने।
भजमान सतां देव दत्तात्रेय नमोस्तु ते॥१०॥
भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे।
नानास्वादमयी भिक्षा दत्तात्रेय नमोस्तु ते॥११॥
ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले।
प्रज्ञानघनबोधाय दत्तात्रेय नमोस्तु ते॥१२॥
अवधूत सदानन्द परब्रह्मस्वरूपिणे ।
विदेह देहरूपाय दत्तात्रेय नमोस्तु ते॥१३॥
सत्यरूप! सदाचार! सत्यधर्मपरायण!
सत्याश्रय परोक्षाय दत्तात्रेय नमोस्तु ते॥१४॥
शूलहस्त! गदापाणे! वनमाला सुकन्धर!।
यज्ञसूत्रधर ब्रह्मन् दत्तात्रेय नमोस्तु ते॥१५॥
क्षराक्षरस्वरूपाय परात्परतराय च।
दत्तमुक्तिपरस्तोत्र! दत्तात्रेय नमोस्तु ते॥१६॥
दत्तविद्याड्यलक्ष्मीश दत्तस्वात्मस्वरूपिणे।
गुणनिर्गुणरूपाय दत्तात्रेय नमोस्तु ते॥१७॥
शत्रुनाशकरं स्तोत्रं ज्ञानविज्ञानदायकम्।
आश्च सर्वपापं शमं याति दत्तात्रेय नमोस्तु ते॥१८॥
इदं स्तोत्रं महद्दिव्यं दत्तप्रत्यक्षकारकम्।
दत्तात्रेयप्रसादाच्च नारदेन प्रकीर्तितम् ॥१९॥
बुधवार, 12 नवंबर 2014
श्रीरामरक्षा स्तोत्र
॥ श्रीरामरक्षास्तोत्रम् ॥
श्रीगणेशायनम: ।
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।
बुधकौशिक ऋषि: ।
श्रीसीतारामचंद्रोदेवता ।
अनुष्टुप् छन्द: । सीता शक्ति: ।
श्रीमद्हनुमान् कीलकम् ।
श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥
॥ अथ ध्यानम् ॥
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दद्पद्मासनस्थं ।
पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ॥
वामाङ्कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं ।
नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम् ॥
॥ इति ध्यानम् ॥
चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥१॥
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणॊपेतं जटामुकुटमण्डितम् ॥२॥
सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥३॥
रामरक्षां पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम् ।
शिरो मे राघव: पातु भालं दशरथात्मज: ॥४॥
कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥
जिव्हां विद्दानिधि: पातु कण्ठं भरतवंदित: ।
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥
करौ सीतपति: पातु हृदयं जामदग्न्यजित् ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥
सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: ।
ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत् ॥८॥
जानुनी सेतुकृत्पातु जङ्घे दशमुखान्तक: ।
पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥
एतां रामबलोपेतां रक्षां य: सुकृती पठॆत् ।
स चिरायु: सुखी पुत्री विजयी विनयी भवेत् ॥१०॥
पातालभूतलव्योम चारिणश्छद्मचारिण: ।
न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥
रामेति रामभद्रेति रामचंद्रेति वा स्मरन् ।
नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥
जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय: ॥१३॥
वज्रपंजरनामेदं यो रामकवचं स्मरेत् ।
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम् ॥१४॥
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हर: ।
तथा लिखितवान् प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥
आराम: कल्पवृक्षाणां विराम: सकलापदाम् ।
अभिरामस्त्रिलोकानां राम: श्रीमान् स न: प्रभु: ॥
१६॥
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥
फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥
आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्ग
सङिगनौ ।
रक्षणाय मम रामलक्ष्मणा वग्रत: पथि सदैव गच्छताम्
॥२०॥
संनद्ध: कवची खड्गी चापबाणधरो युवा ।
गच्छन्मनोरथोSस्माकं राम: पातु सलक्ष्मण: ॥२१॥
रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥
वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ।
जानकीवल्लभ: श्रीमानप्रमेय पराक्रम: ॥२३॥
इत्येतानि जपेन्नित्यं मद्भक्त: श्रद्धयान्वित: ।
अश्वमेधायुतं पुण्यं संप्राप्नोति न संशय: ॥२४॥
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥
रामं लक्शमण पूर्वजं रघुवरं सीतापतिं सुंदरम् ।
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्
राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम् ।
वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥
२६॥
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥
श्रीराम राम रघुनन्दन राम राम ।
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम शरणं भव राम राम ॥२८॥
श्रीरामचन्द्रचरणौ मनसा स्मरामि ।
श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥
माता रामो मत्पिता रामचंन्द्र: ।
स्वामी रामो मत्सखा रामचंद्र: ।
सर्वस्वं मे रामचन्द्रो दयालु ।
नान्यं जाने नैव जाने न जाने ॥३०॥
दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम् ॥३१॥
लोकाभिरामं रनरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरंतं श्रीरामचंद्रं शरणं प्रपद्ये ॥
३२॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं
बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥
३३॥
कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥३४॥
आपदामपहर्तारं दातारं सर्वसंपदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥३५॥
भर्जनं भवबीजानामर्जनं सुखसंपदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥३६॥
रामो राजमणि: सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नम: ।
रामान्नास्ति परायणं परतरं रामस्य दासोSस्म्यहम्
।
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥
इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं
संपूर्णम् ॥
॥ श्री सीतारामचंद्रार्पणमस्तु ॥
सोमवार, 10 नवंबर 2014
द्वादश ज्योतिर्लिंग स्तोत्रम्
सौराष्ट्रे सोमनाथं च श्रीशैले
मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोङ्कारममलेश्वरम्॥
परल्यां वैद्यनाथं च
डाकिन्यां भीमशङ्करम्।
सेतुबन्धे तु रामेशं नागेशं दारुकावने॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं
गौतमीतटे।
हिमालये तु केदारं घुश्मेशं च शिवालये॥
एतानि ज्योतिर्लिङ्गानि सायं
प्रातः पठेन्नरः।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति॥
एतेशां दर्शनादेव पातकं नैव तिष्ठति।
कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः॥: